भज गोविन्दं भज गोविन्दं
Create a trending viral song for Gen Z in a fusion style blending ancient Indian devotional chants with modern indie folk-jazz vibes. Make it upbeat, catchy, and energetic with a hypnotic hook in the chorus that loops perfectly for TikTok trends and reels—think chill grooves mixed with high-energy drops to keep listeners hooked and sharing. Male voice only, deep and resonant like a modern spiritual rapper or indie singer, delivering the Sanskrit lyrics with rhythmic flow and occasional ad-libs for flair. Instrumentation: Lead with soulful saxophone solos for jazzy melodies, acoustic and electric guitar riffs for rock edge, banjo strums for folksy twang, add subtle bass lines, light percussion/drums for a groovy beat, and ambient synths for a contemporary Gen Z twist. Keep the tempo around 100-120 BPM for danceable virality. Full lyrics in Sanskrit: भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते \| सम्प्राप्ते सन्निहिते काले नहि नहि रक्षति डुक्रिङ्करणे ‖ 1 ‖ मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिम् मनसि वितृष्णाम् \| यल्लभसे निज कर्मोपात्तं वित्तं तेन विनोदय चित्तम् ‖ 2 ‖ नारी स्तनभर नाभीदेशं दृष्ट्वा मा गा मोहावेशम् \| एतन्मांस वसादि विकारं मनसि विचिन्तया वारं वारम् ‖ 3 ‖ नलिनी दलगत जलमति तरलं तद्वज्जीवित मतिशय चपलम् \| विद्धि व्याध्यभिमान ग्रस्तं लोकं शोकहतं च समस्तम् ‖ 4 ‖ यावद्-वित्तोपार्जन सक्तः तावन्\-निजपरिवारो रक्तः \| पश्चाज्जीवति जर्जर देहे वार्तां कोऽपि न पृच्छति गेहे ‖ 5 ‖ यावत्-पवनो निवसति देहे तावत्\-पृच्छति कुशलं गेहे \| गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन् काये ‖ 6 ‖ बाल स्तावत् क्रीडासक्तः तरुण स्तावत् तरुणीसक्तः \| वृद्ध स्तावत्-चिन्तामग्नः परमे ब्रह्मणि कोऽपि न लग्नः ‖ 7 ‖ का ते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः \| कस्य त्वं वा कुत आयातः तत्वं चिन्तय तदिह भ्रातः ‖ 8 ‖ सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम् \| निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः ‖ 9 ‖ वयसि गते कः कामविकारः शुष्के नीरे कः कासारः \| क्षीणे वित्ते कः परिवारः ज्ञाते तत्त्वे कः संसारः ‖ 10 ‖ मा कुरु धनजन यौवन गर्वं हरति निमेषात्\-कालः सर्वम् \| मायामयमिदम्-अखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ‖ 11 ‖ दिन यामिन्यौ सायं प्रातः शिशिर वसन्तौ पुनरायातः \| कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायुः ‖ 12 ‖ द्वादश मञ्जरिकाभिर शेषः कथितो वैया करणस्यैषः \| उपदेशो भूद्-विद्या निपुणैः श्रीमच्छङ्कर भगवच्छरणैः ‖ 13 ‖ का ते कान्ता धन गत चिन्ता वातुल किं तव नास्ति नियन्ता \| त्रिजगति सज्जन सङ्गतिरेका भवति भवार्णव तरणे नौका ‖ 14 ‖ जटिलो मुण्डी लुञ्जित केशः काषायान्बर बहुकृत वेषः \| पश्यन्नपि च न पश्यति मूढः उदर निमित्तं बहुकृत वेषः ‖ 15 ‖ अङ्गं गलितं पलितं मुण्डं दशन विहीनं जातं तुण्डम् \| वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशा पिण्डम् ‖ 16 ‖ अग्रे वह्निः पृष्ठे भानुः रात्रौ चुबुक समर्पित जानुः \| करतल भिक्षस्-तरुतल वासः तदपि न मुञ्चत्याशा पाशः ‖ 17 ‖ कुरुते गङ्गा सागर गमनं व्रत परिपालनम्\-अथवा दानम् \| ज्ञान विहीनः सर्वमतेन भजति न मुक्तिं जन्म शतेन ‖ 18 ‖ सुरमन्दिर तरु मूल निवासः शय्या भूतलम्\-अजिनं वासः \| सर्व परिग्रह भोगत्यागः कस्य सुखं न करोति विरागः ‖ 19 ‖ योगरतो वा भोगरतो वा सङ्गरतो वा सङ्गविहीनः \| यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दत्येव ‖ 20 ‖ भगवद्गीता किञ्चिदधीता गङ्गा जललव कणिका पीता \| सकृदपि येन मुरारी समर्चा क्रियते तस्य यमेन न चर्चा ‖ 21 ‖ पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनम् \| इह संसारे बहु दुस्तारे कृपयाऽपारे पाहि मुरारे ‖ 22 ‖ रथ्या चर्पट विरचित कन्थः पुण्यापुण्य विवर्जित पन्थः \| योगी योग नियोजित चित्तः रमते बालोन्मत्तवदेव ‖ 23 ‖ कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः \| इति परिभावय निज संसारं सर्वं त्यक्त्वा स्वप्न विचारम् ‖ 24 ‖ त्वयि मयि सर्वत्रैको विष्णुः व्यर्थं कुप्यसि मय्यसहिष्णुः \| भव समचित्तः सर्वत्र त्वं वाञ्छस्यचिराद्-यदि विष्णुत्वम् ‖ 25 ‖ शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रह सन्धौ \| सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्-सृज भेदाज्ञानम् ‖ 26 ‖ कामं क्रोधं लोभं मोहं त्यक्त्वाऽऽत्मानं पश्यति सोऽहम् \| आत्मज्ञ्नान विहीना मूढाः ते पच्यन्ते नरक निगूढाः ‖ 27 ‖ गेयं गीता नाम सहस्रं ध्येयं श्रीपति रूपम्\-अजस्रम् \| नेयं सज्जन सङ्गे चित्तं देयं दीनजनाय च वित्तम् ‖ 28 ‖ सुखतः क्रियते रामाभोगः पश्चाद्धन्त शरीरे रोगः \| यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम् ‖ 29 ‖ अर्थमनर्थं भावय नित्यं नास्ति ततः सुख लेशः सत्यम् \| पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ‖ 30 ‖ प्राणायामं प्रत्याहारं नित्यानित्य विवेक विचारम् \| जाप्यसमेत समाधि विधानं कुर्व वधानं महद्-अवधानम् ‖ 31 ‖ गुरु चरणाम्भुज निर्भरभक्तः संसाराद्\-अचिराद्\-भव मुक्तः \| सेन्दिय मानस नियमादेवं द्रक्ष्यसि निज हृदयस्थं देवम् ‖ 32 ‖ मूढः कश्चिन वैयाकरणो डुकृण्करणाध्ययन धुरीणः \| श्रीमच्छङ्कर भगवच्चिष्यैः बोधित आसीच्छोदित करणैः ‖ 33 ‖
